|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.6. अध्यायः 006
Mahabharata - Strii Parva - Chapter Topics
पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
धृतराष्ट्र उवाच। 11-6-0x(5322)(64929)
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर॥ 11-6-1(64930)
स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्॥ 11-6-2(64931)
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि॥ 11-6-3(64932)
विदुर उवाच। 11-6-4x(5323)
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम्।
सुगतिं विन्दते येन परलोकेषु मानवः॥ 11-6-4(64933)
उच्यते यत्तु कान्तारं महासंसार एव सः।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत्॥ 11-6-5(64934)
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः॥ 11-6-6(64935)
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्॥ 11-6-7(64936)
स यस्तु कूपो नृपते स तु देहः शरीरिणाम्।
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ॥ 11-6-8(64937)
कूपमध्ये च या जाता वल्ली यत्र स मानवः।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम्॥ 11-6-9(64938)
स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः॥ 11-6-10(64939)
मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा॥ 11-6-11(64940)
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः॥ 11-6-12(64941)
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः॥ 11-6-13(64942)
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा॥ ॥ 11-6-14(64943)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-6-4 उपमानमिदं राजन्निति झ.पाठः॥ 11-6-6 षष्ठोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|